(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.121. अध्यायः 121
Mahabharata - Bhishma Parva - Chapter Topics
तृषार्तेन भीष्मेण पानीययाचनम् ॥ 1 ॥ राजभिः कलशेनानीते जले भीष्मेण तन्निन्दनपूर्वकमर्जुनंप्रति याचनम् ॥ 2 ॥ अर्जुनेन पर्यन्यास्त्रेण भूमिंभित्त्वोत्थापितसलिलधारया भीष्मस्य तृष्णाशमनम् ॥ 3 ॥ भीष्मेण दुर्योधनंप्रति अर्जुनप्रशंसनपूर्वकं पाण्डवैः सह शमोपदेशः ॥ 4 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-121-0x(4246)(44543)
व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः।
पाण्डवा धार्तराष्ट्राश्च उपातिष्ठन्पितामहम् ॥ 6-121-1(44544)
तं वीरशयने वीरं शयानं कुरुसत्तम।
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ॥ 6-121-2(44545)
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः ।
अवाकिरञ्छान्तनवं तत्र गत्वा सहस्रशः ॥ 6-121-3(44546)
स्त्रियो वृद्धास्तथा बालाः प्रेक्षकाश्च पृथग्जनाः ।
समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ॥ 6-121-4(44547)
तूर्याणि शतसङ्ख्यानि तथैव नटनर्तकाः।
शिल्पिनश्च तथाऽऽजग्मुः कुरुवृद्धं पितामहम् ॥ 6-121-5(44548)
उपागम्य च राजेन्द्र सन्नहान्विप्रमुच्य ते।
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ॥ 6-121-6(44549)
अन्वासन्त दुराधर्षं देवव्रतमरिंदमम्।
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ॥ 6-121-7(44550)
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता।
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ॥ 6-121-8(44551)
विबभौ च नृपाणां सा गङ्गासुतमुपासताम्।
देवानामिव देवेशं पितामहमुपासताम् ॥ 6-121-9(44552)
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ ।
अभितप्तः शरैश्चैव नातिहृष्टमनाऽब्रवीत् ॥ 6-121-10(44553)
शराभितप्तकायो हि शस्त्रसंपातमूर्च्छितः ।
पानीयमित संप्रेक्ष्य राज्ञस्तान्प्रत्यभाषत ॥ 6-121-11(44554)
ततस्ते क्षत्रिया राजन्नुपाजह्रुः समन्ततः ।
भक्ष्यानुच्चावचान्राजन्वारिकुम्भांश्च शीतलान् ॥ 6-121-12(44555)
उपानीतं तु पानीयं दृष्ट्वा शान्तनवोऽब्रवीत्।
न मेऽद्य सेवितुं योग्या भोगाः केवलमानुषाः ॥ 6-121-13(44556)
अपक्रान्तो मनुष्येभ्यः शरशय्यां गतो ह्यहम्।
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ॥ 6-121-14(44557)
` सञ्जय उवाच। 6-121-15x(4247)
एवमुक्त्वा तदोवाच भीष्मः शरशतैश्चितः।
पयः पास्यामि गोपाला गोमयं न तु गोमयम्।
गोपयेनाग्निवर्णेन गोमयं न तु गोमयम् ॥' 6-121-15(44558)
एवमुक्त्वा शान्तनवो निन्दन्वाक्येन पार्थिवान्।
अर्जुनं द्रष्टुमिच्छामीत्यभ्यभाषत भारत ॥ 6-121-16(44559)
अथोपेत्य महाबाहुरभिवाद्य पितामहम् ।
अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ॥ 6-121-17(44560)
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्।
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम् ॥ 6-121-18(44561)
दह्यतीव शरीर मे संवृतस्य तवेषुभिः।
मर्माणि परिदूयन्ते मुखं च परिशुष्यति ॥ 6-121-19(44562)
वेदनार्तशरीरस्य प्रयच्छापो ममार्जुन।
त्वं हि शक्तो महेष्वास दातुमापो यथाविधि ॥ 6-121-20(44563)
सञ्जय उवाच। 6-121-21x(4248)
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्।
अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ 6-121-21(44564)
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
वित्रेसुः सर्वभूतानि सर्वे श्रुत्वा च पार्थिवाः ॥ 6-121-22(44565)
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः।
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ 6-121-23(44566)
संधाय च शरं दीप्तमभिमन्त्र्य स पाण्डवः।
पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः॥ 6-121-24(44567)
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ।
उत्पपात ततो धारा वारिणो विमला शुभा ॥ 6-121-25(44568)
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ।
अतर्पयत्ततः पार्थः शीतया जलधारया ॥ 6-121-26(44569)
भीष्मं कुरूणामृषभं दिव्यं दिव्यपराक्रमम् ।
कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः ॥ 6-121-27(44570)
विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः ।
तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषविक्रमम् ॥ 6-121-28(44571)
संप्रावेपन्त कुरवो गावः शीतार्दिता इव।
विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः ॥ 6-121-29(44572)
शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत्।
तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् ॥ 6-121-30(44573)
सर्वपार्थिववीराणां सन्निधौ पूजयन्निव ।
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन ॥ 6-121-31(44574)
कथितो नारदेनासि पूर्वर्षिरमितद्युते ।
वासुदेवसहायस्त्वं महत्कर्म करिष्यसि ॥ 6-121-32(44575)
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ।
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः ॥ 6-121-33(44576)
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ॥ 6-121-34(44577)
मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः।
सरितं सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥ 6-121-35(44578)
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः ।
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनां ॥ 6-121-36(44579)
न वै श्रुतं धार्तराष्ट्रेण वाक्यं
मयोच्यमानं विदुरेण चैव।
द्रोणेन रामेण जनार्दनेन
मुहुर्मुहुः सञ्जयेनापि चोक्तम् ॥ 6-121-37(44580)
परीतबुद्धिर्हि विसंज्ञकल्पो
दुर्योधनो न च तच्छ्रद्दधाति।
स शेष्यते वै निहतश्चिराय
शास्त्रातिगो भीमबलाभिभूतः ॥ 6-121-38(44581)
सञ्जय उवाच। 6-121-39x(4249)
एतच्छ्रुत्वा तद्वचः कौरवेन्द्रो
दुर्योधनो दीनमना बभूव।
तमब्रविच्छान्तनवोऽभिवीक्ष्य
निबोध राजन्भव वीतमन्युः ॥ 6-121-39(44582)
दृष्टं दुर्योधनैतत्ते यथा पार्थेन धीमता।
जलस्य धारा जनिता शीतस्यामृतगन्धिनः ॥ 6-121-40(44583)
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते।
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ॥ 6-121-41(44584)
ऐन्द्रं पाशुपतं ब्रह्मं पारमेष्ठ्यं प्रजापतेः ।
धातुस्त्वष्टुश्च सवितुर्वैवस्वतमथापि वा॥ 6-121-42(44585)
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः।
कृष्णो वा देवकीपुत्रो नान्यो वेदेह कश्चन ॥ 6-121-43(44586)
अशक्यः पाण्डवस्तात युद्धे जेतुं कथंचन ।
अमानुषाणि कर्माणि यस्यैतानि महात्मनः ॥ 6-121-44(44587)
तेन सत्ववता सङ्ख्ये शूरेणाहवशोभिना ।
जिष्णुना समरे राजन्संधिर्भवतु मा चिरम् ॥ 6-121-45(44588)
यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसत्तम।
तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम् ॥ 6-121-46(44589)
यावन्न ते चमूः सर्वाः शरैः सन्नतपर्वभिः ।
नाशयत्यर्जुनस्तावत्संधिस्ते तात य्रुज्यताम् ॥ 6-121-47(44590)
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः ।
नृपाश्च बहवो राजंस्तावत्संधिः प्रयुज्यताम् ॥ 6-121-48(44591)
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् ।
युधिष्ठिरो रणे तावत्संधिस्ते तात युज्यताम् ॥ 6-121-49(44592)
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः।
यावच्चमूं महाराज नाशयन्ति न सर्वशः ॥ 6-121-50(44593)
तावत्ते पाण्डवैर्वीरैः सौहार्दं मम रोचते।
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः ॥ 6-121-51(44594)
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयाऽनघ।
एतत्क्षममहं मन्ये तव चैव कुलस्य च ॥ 6-121-52(44595)
त्यक्त्वा मन्युं व्युपशाम्यस्व पार्थैः
पर्याप्तमेतद्यत्कृतं फल्गुनेन ।
भीष्मस्यान्तादस्तु वः सौहृदं च
जीवन्तु शेषाः साधु राजन्प्रसीद ॥ 6-121-53(44596)
राज्यस्यार्दं दीयतां पाण्डवाना-
मिन्द्रप्रस्थं धरमराजोऽभियातु।
मा मित्रध्रुक्पार्थिवानां जघन्यः
पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र॥ 6-121-54(44597)
ममावसानाच्छान्तिरस्तु प्रजानां
संगच्छन्तां पाण्डवाः प्रीतिमन्तः।
पिता पुत्रं मातुलं भागिनेयो
भ्राता चैव भ्रातरं प्रैतु राजन् ॥ 6-121-55(44598)
न चेदेवं प्राप्तकालं वचो मे
मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या ।
तप्स्यस्यन्ते एतदन्ताः स्थ सर्वे
सत्यामेतां भारतीमीरयामि ॥ 6-121-56(44599)
सञ्जय उवाच। 6-121-57x(4250)
एतद्वाक्यं सौहृदादापगेयो
मध्ये राज्ञां भारतं श्रावयित्वा।
तूष्णीमासीच्छल्यसंतप्तमर्मा
योज्यात्मानं वेदनां संनियम्य ॥ 6-121-57(44600)
धर्मार्थसहितं वाक्यं श्रुत्वा हितमनामयम् ।
नारोचयत पुत्रस्ते मुमूर्षुरिव भेषजम् ॥ ॥ 6-121-58(44601)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि एकविंशत्यधिकशततमोऽध्यायः ।

Mahabharata - Bhishma Parva - Chapter Footnotes

6-121-4 पृधग्जनाः प्राकृता जनाः। भूतानि प्राणिनो गन्धर्वादीनि वा। तमोनुदं सूर्यम् ॥ 6-121-19 परिदूयन्ते परितप्यन्ते ॥ 6-121-27 विकुर्वतो विशेषेण कुर्वतः ॥ 6-121-29 व्याविध्यन्भ्रामितवन्तः ॥ 6-121-33 निधनं निधनहेतुः। तद्विदो देवरहस्यज्ञाः ॥ 6-121-35 जगति भूलोके ॥ 6-121-52 क्षेममिति पाठे हितं ॥ 6-121-53 फल्गुनेन यत्कृतं एतदेतावदेव पर्याप्तमस्तु। चशब्दादेतावतां भ्रातॄणामन्तादपीति ॥ 6-121-57 योज्ययोगधारणायुक्तं कृत्वा ॥ 6-121-58 धर्मार्थेति श्लोकः झo पुस्त एवास्ति ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.